|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.98. अध्यायः 098
Mahabharata - Udyoga Parva - Chapter Topics
पातालं गच्छतो मातलेः वरुणं गच्छता नारदेन यदृच्छया पथि समागमः ॥ 1 ॥ वरुणेन सत्कृतयोस्तयोस्तमापृच्छ्य पातालं प्रति निवर्तनम् ॥ 2 ॥ नारदेन मातलिंप्रति वरुणलोके तत्तद्वस्तुविशेषान्प्रदर्श्य तद्गुणवर्णनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
कण्व उवाच। 5-98-0x(3684)(35315)
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा।
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥ 5-98-1(35316)
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः ।
स्येन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥ 5-98-2(35317)
मातलिर्नारदेनैवं संपृष्टः पथि गच्छता।
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति ॥ 5-98-3(35318)
तमुवाचाथ स मुनिर्गच्छावः सहिताविति।
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥ 5-98-4(35319)
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्।
दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले ॥ 5-98-5(35320)
अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ ।
ददृशाते महात्मानौ लोकपालमपां पतिम् ॥ 5-98-6(35321)
तत्र देवर्षिसदृशीं पूजां स प्राप नारदः ।
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥ 5-98-7(35322)
तावुभौ ग्रीतमनसौ कार्यवन्तौ निवेद्य ह।
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥ 5-98-8(35323)
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥ 5-98-9(35324)
नारद उवाच। 5-98-10x(3685)
दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः ।
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥ 5-98-10(35325)
एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः।
एष वै शीलवृत्तेन शौचेन च विशिष्यते ॥ 5-98-11(35326)
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥ 5-98-12(35327)
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः ॥ 5-98-13(35328)
भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम्।
यत्प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥ 5-98-14(35329)
एतानि हृतराज्यानां दैतेयानां स्म मातले ।
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥ 5-98-15(35330)
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले ।
अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥ 5-98-16(35331)
अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले ।
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥ 5-98-17(35332)
अग्निरेष महार्चिष्माञ्जागर्ति वारुणे ह्रदे ।
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥ 5-98-18(35333)
एष गाण्डीमयश्चापो लोकसंहारसंभृतः।
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥ 5-98-19(35334)
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्।
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवः॥ 5-98-20(35335)
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु ।
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना ॥ 5-98-21(35336)
एतच्छस्त्रं नरेन्द्राणां महच्चक्रे भासितम् ।
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥ 5-98-22(35337)
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।
सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥ 5-98-23(35338)
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् ।
तमसा मूर्छितं भाति येन नार्छति दर्शनम् ॥ 5-98-24(35339)
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले।
तव कार्योपरोधस्तु तस्माद्गच्छाव मा चिरम् ॥ ॥ 5-98-25(35340)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वमि अष्टनवतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-98-9 यन्तुः यन्तारं मातलिंप्रति ॥ 5-98-11 गोपतेः वारिपतेः ॥ 5-98-13 कृतः तन्नामकः ॥ 5-98-14 वारुण्यं वारुण्याः सुरायाः इदं वारुण्यं सुरा विद्यते येषां ते सुराः ॥ 5-98-16 विवर्तते प्रक्षिप्तान्यपि पुनःपुनः प्रहर्तुर्हस्तमायान्ति ॥ 5-98-17 जात्यः जातीयाः ॥ 5-98-18 हविष्मताऽग्निना आविद्धं रुद्धं विष्णुचक्रजमप्यत्र भयं नास्तीत्यर्थः ॥ 5-98-19 गाण्डी खङ्गाख्यः पशुविशेषः तस्य विकारो गाण्डीमयः गाण्डीमयत्वादेव तत् गाणअडीवं नाम धनुरभूत्। गाण्डी वज्रग्रन्थिस्तन्मय इत्यन्ये ॥ 5-98-21 रक्षोबन्धुषु रक्षस्तुल्येषु ॥ 5-98-22 एतच्छस्त्रं धनुः। चक्रेण चक्रादपि ॥ 5-98-24 येन यस्मात्करणात् मूर्च्छितं अभिभूतं आवृतमितियावत्। नार्छति न प्राप्नोति जन इति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|